(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.311. अध्यायः 311
Mahabharata - Vana Parva - Chapter Topics
इन्द्रेण ब्राह्मणवेपधारणेन कर्णप्रति कवचकुण्डलयाचनम् ॥ तस्येन्द्रत्वं जानता कर्णेन तस्माच्छक्तिग्रहणपूर्वकं तस्मै कवचकुण्डलदानम् ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-311-0x(2853)(27829)
देवराजमनुप्राप्तं ब्राह्मणच्छद्मनाऽऽवृतम्।
दृष्ट्वास्वागतमित्याह न बुबोधास्य मानसम् ॥ 3-311-1(27830)
हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान्।
किं ददानीति तं विप्रमुवाचाधिरथिस्ततः ॥ 3-311-2(27831)
ब्राह्मण उवाच। 3-311-3x(2854)
हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम्।
नाह दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम् ॥ 3-311-3(27832)
यदेतत्सहजं वर्म कुण्डले च तवानघ।
एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् ॥ 3-311-4(27833)
एतदिच्छाम्यहं भिक्षां त्वया दत्तां परंतप।
एष मे सर्वलाभानां लाभः परमको मतः ॥ 3-311-5(27834)
कर्ण उवाच। 3-311-6x(2855)
अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम्।
तत्ते विप्र प्रदास्यामि न तु वर्म सकुण्डलम् ॥ 3-311-6(27835)
वैशम्पायन उवाच। 3-311-7x(2856)
एवं बहुविधैर्वाक्यैर्वार्यमाणः स तु द्विजः।
रकर्णेन भरतश्रेष्ठ नान्यं वरमयाचत ॥ 3-311-7(27836)
सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि।
न चान्यं स द्विजश्रेष्ठः कामयामास वै वरम् ॥ 3-311-8(27837)
यदा नान्य प्रवृणुते वरं वै द्विजसत्तमः।
`विनाऽस् सहजं वर्म कुण्डले च विशांपते'।
तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव ॥ 3-311-9(27838)
सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे।
तेनावध्योस्मि लोकेषु ततो नैतज्जहाम्यहम् ॥ 3-311-10(27839)
विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम्।
प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव ॥ 3-311-11(27840)
कुण्डलाभ्यां विमुक्तोऽहंवर्मणा सहजेन च।
दमनीयो भविष्यामि शत्रूणां द्विजसत्तम ॥ 3-311-12(27841)
वैशम्पायन उवाच। 3-311-12x(2857)
यदन्यं न वरं वव्रे भगवान्पाकशासनः।
ततः प्रहस् कर्णस्तं पुनरित्यब्रवीद्वचः ॥ 3-311-13(27842)
विदितो देवदेवेश प्रागेवासि मम प्रभो।
न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् ॥ 3-311-14(27843)
त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम।
अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् ॥ 3-311-15(27844)
यदि दास्यामि ते देव कुण्डले कवचं तथा।
वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् ॥ 3-311-16(27845)
तस्माद्विनिमयं कृत्वा कुण्डलेवर्म चोत्तमम्।
हरस्व शक्रकामं मे न दद्यामहमन्यथा ॥ 3-311-17(27846)
शक्र उवाच। 3-311-18x(2858)
विदितोऽहं रवेः पूर्वमायानेव तवान्तिकम्।
तेन ते सर्वमाख्यातमेवमेतन्न संशयः ॥ 3-311-18(27847)
काममस्तु तथा तात तव कर्ण यथेच्छसि।
वर्जयित्वा तु मे वज्रं प्रवृणीष्व यथेच्छसि ॥ 3-311-19(27848)
वैशम्पायन उवाच। 3-311-20x(2859)
ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम्।
अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः ॥ 3-311-20(27849)
क्रण उवाच। 3-311-21x(2860)
वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव।
अमोघां शत्रुसङ्घानां घातिनीं पृथनामुखे ॥ 3-311-21(27850)
ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः।
शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत् ॥ 3-311-22(27851)
कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम्।
गृहाण कर्ण शक्तिं त्वमनेन समयेन च ॥ 3-311-23(27852)
अमोघा हन्ति शतशः शत्रून्मम करच्युता।
पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः ॥ 3-311-24(27853)
सेयं तव करप्राप्ता हत्वैरकं रिपुमूर्जितम्।
गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज ॥ 3-311-25(27854)
कर्ण उवाच। 3-311-25x(2861)
एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे।
गर्जन्तंप्रतपन्तं च यतो मम भयं भवेत् ॥ 3-311-26(27855)
इन्द्र उवाच। 3-311-27x(2862)
एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे।
त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना ॥ 3-311-27(27856)
यमाहुर्वेदविद्वांसो वराहमपराजितम्।
नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते ॥ 3-311-28(27857)
कर्ण उवाच। 3-311-29x(2863)
`एवमेतद्यथाऽऽत्थ त्वं दानवानां निषूदन।
वधिष्यामि रणे शत्रुं यो मे स्थाता पुरस्सरः' ॥ 3-311-29(27858)
एवमप्यस्तु भगवन्नेकवीरवधे मम।
अमोघां देहि मे शक्तिं यथा हन्यां प्रतापिनम् ॥ 3-311-30(27859)
उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते।
निकृत्तेषु तु गात्रेषु न मे बीभत्सता भवेत् ॥ 3-311-31(27860)
इन्द्र उवाच। 3-311-32x(2864)
न ते बीभत्सता कर्ण भविष्यति कथञ्चन।
ब्रणश्चैव न गात्रेषु यस्त्वं नानृतमिच्छसि ॥ 3-311-32(27861)
यादृशस्ते पितुर्वर्णस्तेजश्च वदतांवर।
तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः ॥ 3-311-33(27862)
विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये।
प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति ॥ 3-311-34(27863)
कर्ण उवाच। 3-311-35x(2865)
संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम्।
यथा मामौत्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते ॥ 3-311-35(27864)
वैशम्पायन उवाच। 3-311-36x(2866)
ततः शक्तिं प्रज्वलितां प्रतिगृह् विशांपते।
शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत ॥ 3-311-36(27865)
ततो देवा मानवा दानवाश्च
निकृन्तन्तं कर्णमात्मानमेव।
दृष्ट्वा सर्वे सिंहनादान्प्रणेदु-
र्न ह्यस्यासीन्मुखजो वै विकारः ॥ 3-311-37(27866)
ततो दिव्या दुन्दुभयः प्रणेदुः
पपातोच्चैः पुष्पवर्षं च दिव्यम्।
दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं
महुश्चापि स्मयमानं नृवीरम् ॥ 3-311-38(27867)
ततश्छित्त्वा कवचं दिव्यमङ्गा-
त्तथैवार्द्रं प्रददौ वासवाय।
तथोत्कृत्य प्रददौ कुण्डले ते
कर्णात्तस्मात्कर्मणा तेन कर्णः ॥ 3-311-39(27868)
`ततो देवो मुदितो वज्रपाणि-
र्दृष्ट्वा कर्णं शस्त्रनिकृत्तगात्रम्'।
ततः शक्रः प्रहसन्वञ्चयित्वा
कर्णं लोके यशसा योजयित्वा।
कृतंकार्यं पाण्डवनां हि भेने
ततः पश्चाद्दिवमेवोत्पपात ॥ 3-311-40(27869)
श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा
दीनाः सर्वे भग्नदर्पा इवासन्।
तां रचावस्थां गमितं सूतपुत्रं
श्रुत्वा पार्था जहृपुः काननस्थाः ॥ 3-311-41(27870)
जनमेजय उवाच। 3-311-42x(2867)
क्वस्ता वीराः पाण्डवास्ते बभूवुः
कुतश्चैते श्रुतवन्तः प्रियं तत्।
किं वाऽकार्षुर्द्वादशेऽब्दे व्यतीते
तन्मे सर्वं भगवान्व्याकरोतु ॥ 3-311-42(27871)
वैशम्पायन उवाच। 3-311-43x(2868)
लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा
विप्रैः सार्धं काम्यकादाश्रमात्ते।
मार्कण्डेयाच्छ्रुतवन्तः पुराणं
कदेवर्षीणआं चरितं विस्तरेण ॥ 3-311-43(27872)
`प्रत्याजग्मुः सरथाः सानुयात्राः
सर्वैः सार्धं सूतपौरोगवैस्ते।
ततो ययुर्द्वैतवनं नृवीरा
निस्तीर्यैवं वनवासं समग्रम्' ॥ 3-311-44(27873)

इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि एकादशाधिकत्रिशततमोऽध्यायः ॥ 311 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-311-3 यच्चान्यत्पादवन्धनम् इति ध. पाठः ॥ 3-311-6 अवनि गृहार्थम्। निवापं न्युप्यते बीजमम्मिन्निति क्षेत्रम्। बहुवर्पिकं यावज्जीविकवृत्तिरूपम् .। 3-311-18 आयानेव आगच्छन्नेव ॥ 3-311-39 कृणाति हिनस्ति कृन्तति छिनत्ति वा अङ्गानीति कर्ण इत्यर्थः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.