|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.311. अध्यायः 311
Mahabharata - Vana Parva - Chapter Topics
इन्द्रेण ब्राह्मणवेपधारणेन कर्णप्रति कवचकुण्डलयाचनम् ॥ तस्येन्द्रत्वं जानता कर्णेन तस्माच्छक्तिग्रहणपूर्वकं तस्मै कवचकुण्डलदानम् ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-311-0x(2853)(27829)
देवराजमनुप्राप्तं ब्राह्मणच्छद्मनाऽऽवृतम्।
दृष्ट्वास्वागतमित्याह न बुबोधास्य मानसम् ॥ 3-311-1(27830)
हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान्।
किं ददानीति तं विप्रमुवाचाधिरथिस्ततः ॥ 3-311-2(27831)
ब्राह्मण उवाच। 3-311-3x(2854)
हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम्।
नाह दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम् ॥ 3-311-3(27832)
यदेतत्सहजं वर्म कुण्डले च तवानघ।
एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् ॥ 3-311-4(27833)
एतदिच्छाम्यहं भिक्षां त्वया दत्तां परंतप।
एष मे सर्वलाभानां लाभः परमको मतः ॥ 3-311-5(27834)
कर्ण उवाच। 3-311-6x(2855)
अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम्।
तत्ते विप्र प्रदास्यामि न तु वर्म सकुण्डलम् ॥ 3-311-6(27835)
वैशम्पायन उवाच। 3-311-7x(2856)
एवं बहुविधैर्वाक्यैर्वार्यमाणः स तु द्विजः।
रकर्णेन भरतश्रेष्ठ नान्यं वरमयाचत ॥ 3-311-7(27836)
सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि।
न चान्यं स द्विजश्रेष्ठः कामयामास वै वरम् ॥ 3-311-8(27837)
यदा नान्य प्रवृणुते वरं वै द्विजसत्तमः।
`विनाऽस् सहजं वर्म कुण्डले च विशांपते'।
तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव ॥ 3-311-9(27838)
सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे।
तेनावध्योस्मि लोकेषु ततो नैतज्जहाम्यहम् ॥ 3-311-10(27839)
विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम्।
प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव ॥ 3-311-11(27840)
कुण्डलाभ्यां विमुक्तोऽहंवर्मणा सहजेन च।
दमनीयो भविष्यामि शत्रूणां द्विजसत्तम ॥ 3-311-12(27841)
वैशम्पायन उवाच। 3-311-12x(2857)
यदन्यं न वरं वव्रे भगवान्पाकशासनः।
ततः प्रहस् कर्णस्तं पुनरित्यब्रवीद्वचः ॥ 3-311-13(27842)
विदितो देवदेवेश प्रागेवासि मम प्रभो।
न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् ॥ 3-311-14(27843)
त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम।
अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् ॥ 3-311-15(27844)
यदि दास्यामि ते देव कुण्डले कवचं तथा।
वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् ॥ 3-311-16(27845)
तस्माद्विनिमयं कृत्वा कुण्डलेवर्म चोत्तमम्।
हरस्व शक्रकामं मे न दद्यामहमन्यथा ॥ 3-311-17(27846)
शक्र उवाच। 3-311-18x(2858)
विदितोऽहं रवेः पूर्वमायानेव तवान्तिकम्।
तेन ते सर्वमाख्यातमेवमेतन्न संशयः ॥ 3-311-18(27847)
काममस्तु तथा तात तव कर्ण यथेच्छसि।
वर्जयित्वा तु मे वज्रं प्रवृणीष्व यथेच्छसि ॥ 3-311-19(27848)
वैशम्पायन उवाच। 3-311-20x(2859)
ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम्।
अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः ॥ 3-311-20(27849)
क्रण उवाच। 3-311-21x(2860)
वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव।
अमोघां शत्रुसङ्घानां घातिनीं पृथनामुखे ॥ 3-311-21(27850)
ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः।
शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत् ॥ 3-311-22(27851)
कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम्।
गृहाण कर्ण शक्तिं त्वमनेन समयेन च ॥ 3-311-23(27852)
अमोघा हन्ति शतशः शत्रून्मम करच्युता।
पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः ॥ 3-311-24(27853)
सेयं तव करप्राप्ता हत्वैरकं रिपुमूर्जितम्।
गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज ॥ 3-311-25(27854)
कर्ण उवाच। 3-311-25x(2861)
एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे।
गर्जन्तंप्रतपन्तं च यतो मम भयं भवेत् ॥ 3-311-26(27855)
इन्द्र उवाच। 3-311-27x(2862)
एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे।
त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना ॥ 3-311-27(27856)
यमाहुर्वेदविद्वांसो वराहमपराजितम्।
नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते ॥ 3-311-28(27857)
कर्ण उवाच। 3-311-29x(2863)
`एवमेतद्यथाऽऽत्थ त्वं दानवानां निषूदन।
वधिष्यामि रणे शत्रुं यो मे स्थाता पुरस्सरः' ॥ 3-311-29(27858)
एवमप्यस्तु भगवन्नेकवीरवधे मम।
अमोघां देहि मे शक्तिं यथा हन्यां प्रतापिनम् ॥ 3-311-30(27859)
उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते।
निकृत्तेषु तु गात्रेषु न मे बीभत्सता भवेत् ॥ 3-311-31(27860)
इन्द्र उवाच। 3-311-32x(2864)
न ते बीभत्सता कर्ण भविष्यति कथञ्चन।
ब्रणश्चैव न गात्रेषु यस्त्वं नानृतमिच्छसि ॥ 3-311-32(27861)
यादृशस्ते पितुर्वर्णस्तेजश्च वदतांवर।
तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः ॥ 3-311-33(27862)
विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये।
प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति ॥ 3-311-34(27863)
कर्ण उवाच। 3-311-35x(2865)
संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम्।
यथा मामौत्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते ॥ 3-311-35(27864)
वैशम्पायन उवाच। 3-311-36x(2866)
ततः शक्तिं प्रज्वलितां प्रतिगृह् विशांपते।
शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत ॥ 3-311-36(27865)
ततो देवा मानवा दानवाश्च
निकृन्तन्तं कर्णमात्मानमेव।
दृष्ट्वा सर्वे सिंहनादान्प्रणेदु-
र्न ह्यस्यासीन्मुखजो वै विकारः ॥ 3-311-37(27866)
ततो दिव्या दुन्दुभयः प्रणेदुः
पपातोच्चैः पुष्पवर्षं च दिव्यम्।
दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं
महुश्चापि स्मयमानं नृवीरम् ॥ 3-311-38(27867)
ततश्छित्त्वा कवचं दिव्यमङ्गा-
त्तथैवार्द्रं प्रददौ वासवाय।
तथोत्कृत्य प्रददौ कुण्डले ते
कर्णात्तस्मात्कर्मणा तेन कर्णः ॥ 3-311-39(27868)
`ततो देवो मुदितो वज्रपाणि-
र्दृष्ट्वा कर्णं शस्त्रनिकृत्तगात्रम्'।
ततः शक्रः प्रहसन्वञ्चयित्वा
कर्णं लोके यशसा योजयित्वा।
कृतंकार्यं पाण्डवनां हि भेने
ततः पश्चाद्दिवमेवोत्पपात ॥ 3-311-40(27869)
श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा
दीनाः सर्वे भग्नदर्पा इवासन्।
तां रचावस्थां गमितं सूतपुत्रं
श्रुत्वा पार्था जहृपुः काननस्थाः ॥ 3-311-41(27870)
जनमेजय उवाच। 3-311-42x(2867)
क्वस्ता वीराः पाण्डवास्ते बभूवुः
कुतश्चैते श्रुतवन्तः प्रियं तत्।
किं वाऽकार्षुर्द्वादशेऽब्दे व्यतीते
तन्मे सर्वं भगवान्व्याकरोतु ॥ 3-311-42(27871)
वैशम्पायन उवाच। 3-311-43x(2868)
लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा
विप्रैः सार्धं काम्यकादाश्रमात्ते।
मार्कण्डेयाच्छ्रुतवन्तः पुराणं
कदेवर्षीणआं चरितं विस्तरेण ॥ 3-311-43(27872)
`प्रत्याजग्मुः सरथाः सानुयात्राः
सर्वैः सार्धं सूतपौरोगवैस्ते।
ततो ययुर्द्वैतवनं नृवीरा
निस्तीर्यैवं वनवासं समग्रम्' ॥ 3-311-44(27873)
इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि एकादशाधिकत्रिशततमोऽध्यायः ॥ 311 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-311-3 यच्चान्यत्पादवन्धनम् इति ध. पाठः ॥ 3-311-6 अवनि गृहार्थम्। निवापं न्युप्यते बीजमम्मिन्निति क्षेत्रम्। बहुवर्पिकं यावज्जीविकवृत्तिरूपम् .। 3-311-18 आयानेव आगच्छन्नेव ॥ 3-311-39 कृणाति हिनस्ति कृन्तति छिनत्ति वा अङ्गानीति कर्ण इत्यर्थः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|